महर्षिदयानंदसरस्वती

 महर्षिर्दयानन्दः

(दयानन्द-गुण-गौरवम् )

गुणानामाधारो विदित-श्रुतिशास्त्रार्थनिश्चय:।समुद्धर्ता भर्ता पतितजनचित्तार्तिहरणः। नयन्त्रात्मोत्सर्गं परहितरतः स्वार्थविरतो। दयानन्दः स्वामी जयतु भुवने भास्कररुचिः ॥

जीवनवृत्तम्-

अयं महात्मा गुजरात-प्रान्तान्तर्गत-टंकारानगरे 1824 ईसवीये जनिं लेभे। अस्य पितृवर्यः कर्षणजीतिवारी मातृवर्या रुक्मिणी चास्ताम्। शास्त्र-विधिमनुसृत्यजनकोऽस्य दशमेऽहनि मूलशंकर (मूलजी) इति नामधेयम् अकरोत्। अष्टमे संवत्सरे एनमुपानयत्। प्राप्ते तु त्रयोदशे वर्षे जनक एनं शिवरात्रिव्रतम् आदिदेश । शिवरात्रिव्रतकाले स निशीथे शिवोत्तमाङ्गम् आसाद्य नैवेद्यम् असनन्तं मूषक कम् अद्राक्षीत् । तदा चिन्तापिहितवृत्तिर्मनसोद्वेलितः पितरं शिवस्वरूपम् अप्राक्षीत्- किमयं मूर्तः शिवः सत्यः ? उताहो सत्यः शिवोऽन्य एव ? जनकोऽस्य तज्जिज्ञासा-समाधानेऽक्षमोऽभूत्। तदा स सत्यं शिवम् अन्वेष्टुं प्रतिज्ञातवान्। गृहे स्वभगिन्याः पितृव्यस्य च निधनम् आलोक्य कथं मोक्षावाप्तिर्जन्ममृत्युबन्धननिवृत्तिश्च स्यादिति वैराग्यम् उदभूत्। स गृहं पितरौ च परित्यज्य वनमगात्। तत्र साधुसंगत्याऽपि न तृप्तिं लेभे। पूर्णानन्दयतेः संन्यासं गृहीत्वा 'दयानन्दसरस्वती' इत्याख्यां जगाम। ततो हिमालयं प्राप्य तपश्चक्रे। पश्चाच्च विरजानन्दयतीश्वराणां ख्याति संश्रुत्य तदन्तिकम् अवाप। तस्माद् ज्ञानभास्कराद् व्याकरणादिकम् अध्यैष्ट। वेदशास्त्रादिशिक्षाम् अवाप्य गुरुदक्षिणारूपेण तस्मै लवङ्गानि प्रायच्छत्। गुरुश्च तं समादिशत्- 'वेदविद्यां विद्योतय, शास्त्राणि समुल्लासय,भुवने वैदिकधर्मज्योति प्रज्वालय, सत्यशास्त्राणि समुद्धर, मतमतान्तरप्रसारिताम अविद्यानिशीथिनीम्अपसारय, पाषण्डततिं समुन्मूलय' इति ।

काश्यां 10 नवम्बर, 1869 ईसवीये 'मूर्तिपूजा वेदविरुद्धा' इति विषयमाश्रित्य तस्य काशीस्थैर्विद्वद्भिः शास्त्रार्थो बभूव। तत्र च विजयश्रीरेनम् अवृणोत्। तस्य विजयोद्घोषस्तदानीन्तनैः समाचारपत्रैः पायोनीयर हिन्दु-ज्ञानप्रदायिनी प्रभृतिभिः प्रसारितः। स 12अप्रैल,1875 ईसवीये मुम्बई नगरे सर्वप्रथमम् आर्यसमाजम् अस्थापयत्। भारतवर्षस्य विभिन्नप्रदेशेषु प्रचारादिविधिना वैदिकधर्मसिद्धान्तान् प्रासारयत्। जोधपुरनगरे 29 सितम्बर, 1883 ईसवीये नन्हीनाम्न्या वेश्याया वशगो भूत्वाऽस्य पाचको जगन्नाथो दुग्धे विषं सम्मिश्रय अस्मै प्रादात्। ततश्च स ३० अक्टूबर १८८३ ईसवीये मङ्गलवासरे दीपावली पर्वणि ज्ञानराशिर्यतीश्वरोऽयं भौतिकं शरीरं विहाय यशः शेषताम् अयात्।

कृतय:- 

तस्य प्रथिततमाः कृतयः सन्ति वेदभाष्यम्, यजुर्वेदभाष्यम्, ऋग्वेदादिभाष्यभूमिका, सत्यार्थप्रकाशः, संस्कारविधिः, गोकरुणानिधिः, व्यवहारभानुः, आर्याभिविनय-प्रभृतयः । तत्र नैरुक्तप्रक्रियाम् आश्रित्य कृतं वेदभाष्यं वेदानां गौरवं सर्वज्ञाननिधानत्वं च प्रतिष्ठापयति। सत्यार्थप्रकाशो विश्ववाङ्मयस्य प्रकाशस्तम्भः। सोऽयं स्वसिद्धान्त समर्थनेन परपक्षनिरसनेन चाभुवनं प्रथतेतमाम् । समाजसुधारको राष्ट्रोद्धारकच-

भारतवर्षे समाजसुधारकेषु महर्षिर्दयानन्दो मूर्धन्यः। तस्य समाजसुधारकार्येषु सर्वोत्कृष्टत्वं पाश्चात्यैरपि मनीषिभिः साह्लादम् उद्घोष्यते। स महर्षिरेव जन्ममूलां जातिप्रथां निरस्य गुणकर्मानुसारं वर्णव्यस्थां वेदाभिमताम् अघोषयत्। समाजे प्रचलितं बद्धमूलम् अनर्थमूलं च सर्वविधमपि पाषण्डं प्रपञ्चम्, धार्मिकमन्धानुकरणम्, अन्धविश्वासं भूतप्रेतादिप्रवादं च निराकरोत्। मूर्तिपूजैषा सर्वविधायाः पाषण्डपरम्पराया आधारभूतेति निर्णीय, अस्या वेदविरुद्धत्वं चावगत्य,युक्ति-प्रमाण पुरःसरं मूर्तिपूजाम् अखण्डयत्। मृतानां पितॄणां श्राद्ध-तर्पणादिविधिरपि वेदविरुद्ध एवेति स प्रत्यपादयत्। मातृशक्ते: उन्नतिमन्तरेण न देशोन्नतिः सम्भवतीति। विचार-विचारं स्त्रीशिक्षायां बलं न्यधात् स एव स्त्रीशिक्षायाः सर्वप्रथमप्रचारकत्वेनाभिनन्द्यते। स आर्षपद्धतिमनुसृत्य गुरुकुलसंस्थापनासमकालमेव कन्यागुरुकुलपद्धतिमपि प्रावर्तयत्। अस्पृश्योद्धारविषये स महात्मनो गान्धेरग्रदूतः। स बालविवाहम् अहितकरमिति निश्चित्यन्यषेधयत्। विधवाविवाहम्, विधवाश्रमम्, अनाथालयादिकं च प्रावर्तयत्। राष्ट्रभाषाया हिन्दीभाषाया अपि प्रवर्तने तस्यापूर्व योगदानम्। गुर्जरदेशीयोऽपि सन्, संस्कृतभाषानिष्णातोऽपि सन्, लोकहितभावनया आर्यभाषां हिन्दीभाषामेव लेखनस्य प्रचारस्य च माध्यमं चक्रे। हिन्दीभाषाप्रचारे आर्यसमाजस्य यथा योगदानम्, न तथाऽन्यस्य कस्यचिदपि समाजस्य । स वेदाध्ययनम् आर्याणां परमकर्तव्यम् अमन्यत। अतएव स वेदाध्ययनेऽतीव बलं न्यधात्। वेदाएवार्यजातेः प्रमाणत्वेन संमान्या ग्रन्थाः सन्ति इत्येवं सोऽघोषयत्। भारते शिक्षाप्रसारे तन्मतमनुरुध्य प्रवर्तितानां डी०ए०वी० कालेज प्रभृतीनां महत्त्वपूर्ण योगदानम्। राष्ट्रियता जागरणेऽपि तस्य विशिष्ट योगदानम् 1875 ईसवीये संजातायां राष्ट्रियक्रान्तौ तस्य महर्षेः परोक्षं योगदानमभूदिति ऐतिह्यविद्भिर्निश्चप्रचं प्रतिपाद्यते। सत्यार्थप्रकाशे स्फुटं तेन प्रतिपाद्यते यद् निकृष्टमपि स्वराज्यं श्रेयोवहादपि परकीयाद् राज्यात् श्रेयस्करम् ।

कोई कितना ही करे, परन्तु जो स्वदेशीय राज्य होता है, वह सर्वोपरि उत्तम होता है। अथवा मतमतान्तर के आग्रह-रहित, अपने और पराये का पक्षपातशून्य, प्रजा पर पिता-माता के समान कृपा, न्याय और दया के साथ विदेशियों का राज्य भी पूर्ण सुखदायक नहीं है। (सत्यार्थप्रकाश, अष्टम समुल्लास, पृष्ठ 145) भारतीय गौरव-संरक्षणार्थमेव स 'कृण्वन्तो विश्वमार्यम्' इत्यघोषयत्। संस्कृत- भाषायाः प्रचार: प्रसारश्च तस्य जीवनस्योद्देश्यम्। वैदिकीं दृष्टिमवष्टभ्य यज्ञस्य महत्त्वम्, पशुबलिविरोधम्, सन्ध्योपासनादीनाम् उपयोगित्वम्, निराकारस्येश्वरस्योपासनम् वेदविरुद्धत्वाद् मूर्तिपूजाया निराकरणम्, पञ्चयज्ञानां षोडशसंस्काराणां चावश्यकरणीयत्वं प्रत्यपादयत् । हिन्दु-धर्मान्तर्गत-कुरीतीनाम्, अन्धविश्वासानां च यावज्जीवनं विरोधम् अशिक्षयत्। स एव हिन्दुधर्म-विघटनं न्यरोधयत्। शुद्धि-आन्दोलनं प्रवर्त्य यवन-ईसु-मतानुयायिनामपि शुद्धि विधाय तान् वैदिकधर्मे अदीक्षयत्। एवं वैदिकधर्मस्य श्रेष्ठत्वं प्रत्यपादयत्।

उपसंहारः— 

एवं महर्षेः कार्यानुशीलनेन स्फुटमेतद् अवगम्यते यत् स क्रान्तदशी निर्भीकः, निःस्वार्थः, धर्मपरायणः, परार्थैकधीः, दीन-हीन-पतित-रक्षकः, शोषितपोषकः, नारीसम्मान-संवर्धकः, वैदिकधर्मप्रतिष्ठापकः, गवां रक्षकः, गुरुकुलशिक्षा-पद्धति- प्रवर्तकः, मूर्तिपूजा-अवतारवादादि-दोष-संहारकः, समाजोन्नायकः, राष्ट्रियचेतनाप्रबोधकः आर्यजातिप्राणरूपः अहिंसा-सत्य-ब्रह्मचर्यमूर्तिः, कुरीतिनिरोधकः, यज्ञादिप्रवर्तकः भारतोन्नतिसाधकश्च कश्चन महात्मा महायोगी महापुरुषश्चासीत्।

टिप्पणियाँ

लोकप्रिय पोस्ट